भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 651 to 660 of 1530 verses
अचलाधित्यकोत्सङ्गमिमाः समधिशेरते॥ १४५॥

(काव्याद. १.९८)

उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः।

इतीह गर्भिणीधर्मा बहवोऽन्यत्र दर्शिताः॥ १४६॥

(काव्याद. १.९९)

(५. गुणालङ्कारसङ्करः —६)

धर्म्यध्यासस्तु गुणालङ्कारसङ्करे प्रधानं भवति। यतो यद्यपि गुणवत्येव वाक्येऽलङ्कारयोगः, तथापि कवचिद् गुणस्य प्राधान्यं क्वचिदलङ्कारस्येति प्रधानाङ्गभावेन गुणालङ्कारयोः संकरव्यवहारः प्रवर्तते।

स षोढा— शब्दगुणप्रधानः, अर्थगुणप्रधानः, दोषगुणप्रधानः, शब्दालङ्कारप्रधानः, अर्थालङ्कारप्रधानः, उभयालङ्कारप्रधानः। तेषु—

शब्दगुणप्रधानो यथा—

प्राप्‍तश्रीरेष कस्मात्॰॥ १४७॥

Showing 651 to 660 of 1530 verses