दोषगुणप्रधानो यथा—(किराता. ५.३०)
येनापविद्धसलिलस्फुटनागसद्मा—देवासुरैरमृतमम्बुनिधिर्ममन्थे।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः॥ १४९॥
अत्र 'व्यावर्तनैरहिपतेरयमाहिताङ्कः' इति ज्ञापकहेतोः 'खं व्यालिखन्निव' इति उत्प्रेक्षावयवाच्च, देवासुरैरिति नित्यवैरविवक्षायां बहुवचनम्, 'अमृतमम्बुनिधिर्ममन्थे' इति 'द्विकर्मकेषु जिप्रभृतीनामुपसंख्यानम्' इति अमृतशब्दाद् द्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते।
ननु चात्राप्यर्थस्य प्राकट्यात् प्रसादस्य प्राधान्यं कथं न भवति ?
तद्विषयस्य ज्ञापकहेतुनापहृतत्वात् सोऽपि हृर्थालङ्कार एव।
गुणालङ्कारयोश्च तुल्यकक्ष्यतायामलङ्कारः प्रधानं भवति, न गुणः । गुमैर्हि गुणभूतैरेवालङ्काराः प्राय आरभ्यन्ते। तद्यथा—
अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते॥ १५०॥
समस्तात्युद्भटपदामोजःकान्तिसमन्विताम्।