भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 671 to 680 of 1530 verses
दोषगुणप्रधानो यथा—(किराता. ५.३०)

येनापविद्धसलिलस्फुटनागसद्मा—देवासुरैरमृतमम्बुनिधिर्ममन्थे।

व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः॥ १४९॥

अत्र 'व्यावर्तनैरहिपतेरयमाहिताङ्कः' इति ज्ञापकहेतोः 'खं व्यालिखन्निव' इति उत्प्रेक्षावयवाच्च, देवासुरैरिति नित्यवैरविवक्षायां बहुवचनम्, 'अमृतमम्बुनिधिर्ममन्थे' इति 'द्विकर्मकेषु जिप्रभृतीनामुपसंख्यानम्' इति अमृतशब्दाद् द्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते।

ननु चात्राप्यर्थस्य प्राकट्यात् प्रसादस्य प्राधान्यं कथं न भवति ?

तद्विषयस्य ज्ञापकहेतुनापहृतत्वात् सोऽपि हृर्थालङ्कार एव।

गुणालङ्कारयोश्च तुल्यकक्ष्यतायामलङ्कारः प्रधानं भवति, न गुणः । गुमैर्हि गुणभूतैरेवालङ्काराः प्राय आरभ्यन्ते। तद्यथा—

अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता।

विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते॥ १५०॥

समस्तात्युद्भटपदामोजःकान्तिसमन्विताम्।

Showing 671 to 680 of 1530 verses