प्रसादि स्वाभिधानं च यमकं कृतिनां मतम्॥ इति।
मा भूदलङ्कारतुल्यकक्षतया अर्थगुणस्य प्राधान्यं, शब्दगुणस्य श्लाघ्यविशेषणयोग उदात्तत्वमित्यादेः किमिति प्राधान्यं न भवति ?
दोषगुणानामतीवोल्लेखवत्त्वेन प्राधान्यात्।
१. वृत्त्यो = रीत्योरिति तु वक्तव्यम्।
सा वामनप्रसिद्धिर्लङ्घितनभसो बलिद्विषोऽद्यापि।
मत्यरिणः खलु लोका मर्माण्येवानुबध्नन्ति॥ १५६॥
दोषस्य यो गुणीभावः स ततोऽप्यधिकं प्रकाशत इति।
शब्दालङ्कारप्रधानो यथा—(स.क.)
यच्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य।