तद् वः पुनातु हिमशैलशिलानिकुञ्जझाङ्कारडम्बरविरावि सुरापगाम्भः॥ १५७॥
अत्रार्थस्य प्राकट्यं प्रसादः, विभवोत्कर्ष उदारता, मृदुस्फुटोन्मिश्र— वर्णानामवैषम्यं समता, बन्धगाढता और्जित्यमित्यादिभ्यो गुणेभ्यः प्राधान्येन शब्दालङ्कारानुप्रासः प्रतीयते।
आश्लेषिणः पृथुतरक्लमपीतशीतमायामिनीर्घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ १५८॥
अत्र बन्धविकटत्वमुदारता, श्लाघ्यविशेषणयोग उदात्तत्वम्, विभवोत्कर्ष औदार्यम्, दीप्तरसत्वं कान्तिरित्यादिभ्यो गुणेभ्यः प्राधान्येन जातिरर्थालङ्कारः प्रतीयते।
अभ्युद्धृता वसुमती दलितं रिपूरः॰॥ १५९॥
अत्रोक्तिपरिपाकः प्रौढिः, बन्धविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम्, अर्थस्य प्राकट्यं प्रसाद इत्यादिभ्यो गुणेभ्यः श्लेषोपसर्जना विशेषोक्तिरुभयालङ्कारः प्राधान्येन प्रतीयते।