रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित्।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते महाकवेः॥ १६०॥
रसभावादिविषयविवक्षाविरहे सति।
अलङ्कारनिबन्धो यः स १कविभ्यो न रोचते॥ १६१॥
(ध्व. ३.४२ सं.) १. 'स' चित्रविषयो मतः' ध्व. ३.४२ संका. २. प्रकृष्यते = ध्वनौ मतः — ध्व. २.१६
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत्।
अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारः २प्रकृष्यते॥ १६२॥