तत्र रसालङ्कारसङ्करः षोढा सम्भवति—
'शब्दालङ्कारप्रधानः, अर्थालङ्कारप्रधानः, उभयालङ्कारप्रधानः, भावप्रधानः, आभासप्रधानः रसप्रधानश्चेति'। तेषु —
शब्दालङ्कारप्रधानो यथा—(पृ. ६०५)
कमलमलिरमुञ्चदुत्पलकलिकातरलोलमुत्पलाशङ्कां ते।
कुरुते स्म चक्षुरलिकुलकलिकातरलोलमुत्पलाशङ्कां ते॥ १६६॥
अत्र रतिरसप्रभवं वागारम्भमभिभूय यमकानुप्रासौ शब्दालङ्कारौ प्राधान्येन प्रतीयेते।
अर्थालङ्कारप्रधानो यथा— (सेब. १५.६६)
पुलअं जणेंति दहकंधरस्स राहवसरा सरीरअडंता।
जणअसुआपओहरप्फंस—करजुअलाणिव्वूढा॥ १६७॥
(पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे पतन्तः।