तीए दंसणसुहए पणअ-क्खलण-जणिओ मुहम्मि मणहरे।
रोसो वि हरइ हिअअं मअपंको व्व मअलंछणम्मि णिसण्णो॥ १६९॥
(तस्या दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे।
रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाञ्छने निषण्णः॥)
अत्र हेतूपमातिरस्कारेण रसवतो हरेर्वचसि वागारम्भरूपे रुक्मिणीदत्त— पारिजातमञ्जरीविलोकनप्रभवं सत्यभामाया रोषभावरामणीयकं प्राधान्येन प्रतीयते।
कह मा झिज्जउ मज्झो इमीअ कंदोट्ठदलसरिच्छेहिं।
अच्छीहिं जो ण दीसइ घण-थणहर-रुद्ध-पसरेहिं॥ १७०॥
(कथं मा क्षीयतां मध्य एतस्या कन्दोष्ठ/नीलोत्पल—दलसदृशाभ्याम्।
अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥)