आरब्धा उत्तरितुं दुःखोत्तारया पदव्या॥)
सालिवणगोविआए उड्डीयं/वंतीअ पूसविंदाइं।
सव्वंगसुंदरीएं वि पहिआ अछीह पेच्छंति॥ २१५॥
(शालिवनगोपिकाया उड्डाययन्त्याः शुकबृन्दानि।
सर्वाङ्गसुन्दर्या अपि पथिका अक्षिणी एव प्रेक्षन्ते॥)
हृद्यं सूक्ष्मं च भाव एव। तयोर्हृद्यं यथा— (गास. ९१६ वे.)
हिअए रोसुग्गिण्णं पाअप्पहरं सिरेण पत्थंतो।
ण हओ दइओ माणांसिणीए थोरस्सुअं रुण्णं॥ २१६॥
(हृदये रोषोद्गीर्णं पादप्रहारं शिरसा प्रार्थितवान्।