न हतो दयितो मनस्विन्या स्थूलाश्रुकं रुदितम्॥)
सूक्ष्मो यथा—(काव्याद. २.२६१)
कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत्॥ २१७॥
प्रसिद्धहेतुत्यागेन हेत्वन्तरविभानम्।
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना॥ २१८॥
तयोराद्या यथा—(कुसं. १.३१)
असम्भृतं मण्डनमङ्ग्यष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साथ वयः प्रपेदे॥ २१९॥