अत्र हेतूपमोत्प्रेक्षासमाधितिरस्कारेण कस्यचिदनवाप्तदयिताप्रत्यभियोगा— भिमानसुखस्य सुभगमानिनः प्रतिनायकादेः प्रत्यहं सीदतः रसाभासवागारम्भः प्राधान्येन प्रतीयते।
मा गर्वमुद्वह कपोलतले चकास्ति ॰॥ १७१॥ (पृ. ५३५ H.O.S.)
अत्राक्षेपहेत्वहेतुपर्यायोक्तिभ्यः प्रकृष्टरतिरसप्रसवः प्रियप्रेमाभिमानविकत्थनायाः प्रियवयस्यायाः पुरस्तात् स्वकान्तप्रेमनिवेदनापरः वेपथुव्यभिचारसूचको वागारम्भः प्राधान्येन प्रतीयते।
एवमियमनेकप्रकारा संसृष्टिर्गुणरसालङ्कारसंकरप्रभवाभिमन्तव्या। तत्रापि प्रधानाङ्गभावेन समकक्ष्यतया च व्यक्ताव्यक्तोभयात्मकरूपायाः तिलतण्डुलक्षीर— जलच्छायादर्शकादयो भेदा यथायोगमवगन्तव्याः।
उक्तेष्वेवान्तर्भावात्। तद्यथा—अर्थोभयालङ्कारसङ्कराभिधाने 'खं वस्ते' इति 'चर्चां पारयति' इति विभक्तिमुद्रा 'कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलम्' इति पदमुद्रा च शब्दालङ्कारावपि संकीर्यमाणौ प्रतीयेते।
किं पुनरमी सङ्करा द्वयोर्बहूनामपि भवन्तीति?