जनकसुतापयोधरस्पर्शमहार्घित—कर—युगल—निर्व्यूढा॥)
अत्र रसाभासमभिभूय हेतुरर्थालङ्कारः प्राधान्येन प्रतीयते।
किं गुरु जहणं अह थणभरो त्ति भाअ-कर-अलग्ग-तुलिआए।
विहिणो खुत्तंगुलि-मग्ग-विब्भमं वहइ से तिवली॥ १६८॥
(किं गुरु जघनमथ स्तनभर इति भागकरतलाग्रतुलितायाः।
विधेः खाताङ्गुलिमार्गविभ्रमं वहत्यस्यास्त्रिवली॥)
१. इह उत्तरार्धम् 'विकटाक्षरबन्धस्तु कृत्स्नमेकत्र दुष्करम्' इति।
अत्र रतिप्रभवान् विस्मयादीनभिभूय पर्यायसंशयहेतूत्प्रेक्षोपमा उभयालङ्काराः प्राधान्येन प्रतीयन्ते।