श्रृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत्।
स एव वीतरागश्चेन्नीरसं सर्वमेव तत्॥ १६३॥
यया कयाचिच्छुत्या यत्समानमनुभूयते।
तद्रूपादिपदासक्तिस्सानुप्रासा रसावहा॥ १६४॥
नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रुतिः।
अलौकिकार्थानुक्तिश्च रसमाहर्तुमीशत१॥ १६५॥