भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 721 to 730 of 2002 verses
निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन।

रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः॥ १६३॥

२. (१.२ परिकरः)

समुत्पन्नार्थबाहुल्याज्ज्ञेयः परिकरस्तु सः॥ १६४॥

(नाशा. १९.६५)

यथा रत्नावल्याम्— अन्यथा क्‍व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गनिमग्नायाः फलकासादनम् रत्नमालाचिह्नायाः परिज्ञायेहानयनम्, इति यावत्॥

यथा च वेणीसंहारे भीमः— सहदेव, उच्यतां मद्‌वचनादार्यः— (वेसं. १.११)

युष्मच्छासनलङ्घनाम्भासि मया मग्नेन नाम स्थितं प्राप्‍ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।

क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा— नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव॥ १६५॥

३. (१.३ परिन्यासः)

Showing 721 to 730 of 2002 verses