उदात्तमपि यत् कार्यं/काव्यं स्यादङ्गैः परिवर्जितम्।
हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः॥ १५९॥
तस्मात् सन्धिप्रयोगेषु यथाकाव्यं यथारसम्।
कार्याण्यङ्गानि तेषां तु प्रविभागः प्रदृश्यते॥ १६०॥
उपक्षेपः, परीकर्म/परिकरः, परिन्यासो, विलोभनम्, युक्तिः, प्राप्तिः, समाधानं, विधानं, परिभावना, उद्भेदः, करणं, भेदः इति मुखसन्धौ द्वादशाङ्गानि।
विलासः, परिसर्पः, विधूतं, तापनं, नर्म, नर्मद्युतिः, प्रगमनं, विरोधः(निरोधः), पर्युपासनं, पुष्पं, वज्रं, वर्णसंहार इति प्रतिमुखसन्धावपि द्वादशाङ्गानि।
अभूताहरणं, मार्गः, रूपम्, उदाहरणं, क्रमः, सङ्ग्रहः अनुमानं, प्रार्थना, आक्षिप्तिः(संक्षिप्तिः), तोटकम्, अधिबलम्, उद्वेगः, विद्रवः इति गर्भसन्धौ त्रयोदशाङ्गानि।