अपवादः, संस्फोटः, द्रवः, शक्तिः, व्यवसायः, प्रसङ्गः, कान्तिः, खेदः, प्रतिषेधः, विरोधनम्, आदानं, साधनं/छादनं, प्ररोचनेति विमर्शसन्धावपि त्रयोदश।
सन्धिः, निरोधः, ग्रथनं, निर्णयः, शेषणं/परिभाषणम्, कान्तिः(द्युतिः), प्रसादः, आनन्दः, समयः, उपगूहनं, भूषणं, पुनर्वाक्यं, काव्यसंहारः, प्रशस्तिः इति निर्वहणसन्धौ चतुर्दशाङ्गानि।
सैषा सन्ध्यङ्गचतुष्टिर्नाटकादिषु महाकाव्यादिषु च पूर्णसन्ध्यादिषु निबन्धनीया। प्रतिसन्धि च यान्यङ्गानि पठितानि तावतामेव क्रमेण निबन्धः कार्य इत्येष प्रचुरः प्रयोगः। संविधानवशाच्च न्यूनाधिकभावेन व्युत्क्रमेण च प्रयोग इत्येतदप्यवगन्तव्यमिति ॥ १६१॥ तेषु —
(१. मुखसन्धौ द्वादशाङ्गानि)
काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः॥ १६२॥
यथा रत्नावल्यां यौगन्धरायणः सूत्रधारानन्तरम्— एवमेतत्। कस्सन्देहः? 'द्वीपादन्यस्मादपि' इत्यादि पठति।
यथा च वेणीसंहारे सूत्रधारः—