सन्धीनां यानि वृत्तानि प्रदेशेष्वनु पूर्वशः।
सुसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत्॥ १५४॥
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः। रागप्राप्तिः प्रयोगस्य गुह्यानां च निगूहनम्॥ १५५॥
आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम्।
अङ्गानां षडि्वधं ह्येतद् दृष्टं शास्त्रे प्रयोजनम्॥ १५६॥
अङ्गहीनो नरो यश्च नैवारम्भक्षमो भवेत्।
अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत्॥ १५७॥
काव्यं यदपि हीनार्थं सम्यगङ्गैः समन्वितम्।
दीप्तत्वात्तु प्रयोगस्य शोभामेति न संशयः॥ १५८॥