भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 671 to 680 of 2002 verses
अत्र जलधेः पारस्य दुर्गत्वात् दुष्करं प्रश्वासं मन्यमानो रामपराक्रमस्य तत्राप्रतिघातादतिशयमुपवर्णयंश्चिन्त्यमानेषु देशान्तरेषु सुकरतां प्रश्वासने भाविनीं ख्यापयति, न तु जलधेः पारे स्थितां ज्ञात्वैव।

६३.(५.३)

अर्थोपक्षेपणं यत्र हीनं/लीनं सविनयं भवेत्।

श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते॥ १५०॥(नाशा. १९.३२)

यथा मुद्राराक्षसे— चाणक्येन स्वचरितात् प्रयोगाद्राक्षसग्रहणे सन्देहादाशंसिते सिद्धार्थवचनसङ्घटनया निश्चय उपक्षिप्‍तः। तत्र

चाणक्यः— अपि नाम दुरात्मा राक्षसो गृह्येत ?

सिद्धार्थकः— अयं गण्हिओ। (अयं गृहीतः।)

चाणक्यः— (सहर्षमात्मगतम्) हन्त, गृहीतो दुरात्मा राक्षसः! (प्रकाशम्) भद्र अथ कोऽयं गृहीतः?

सिद्धार्थकः— गहीदो अय्यसंदेसो त्ति। (गृहीत आर्यसन्देश इति।)॥ १५१॥

६४.(५.४)

Showing 671 to 680 of 2002 verses