भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 681 to 690 of 2002 verses
द्व‍यर्थो वचनविन्यासः सुश्लिष्टः कार्ययोजितः।

उपन्याससुयुक्तत्वं तच्चतुर्थमुदाहृतम्॥ १५२॥

(नाशा. १९.३३)

यथा रत्नावल्यां राजा नवमालिकोपन्यासादाह— (रत्ना. २.४)

उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा— दायासं श्वसनोद्‌गमैरविरतैरातन्वतीमात्मनः।

अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्‍यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्॥ १५३॥

अत्र वत्सराजस्य वासवदत्तया सह नवमालिकामाधवीलतयोः प्रथमकुसुमोद्गमनिमित्ते समाह्वये विषयसुखमभिलषतः सागरिकासंदर्शनं सुखनिमित्तं द्वितीयार्थाभिधानादागामि प्रयुक्तम्; अयं च वचनविन्यासः सुश्लिष्टो नितरामुपक्षेपणार्थेनालिङ्गितः प्रसङ्गादुक्तः। सेयं द्वितीया चतुष्षष्टिः॥

(३. तृतीया चतुष्षष्टिः)

(सन्ध्यङ्गचतुष्षष्टिः)

अथ तृतीया सन्ध्यङ्गचतुष्षष्टिरित्याचक्षते।

Showing 681 to 690 of 2002 verses