गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः॥ १५१॥
आश्लिष्टश्लथभावां तु पुराणच्छाययाश्रिताम्।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥ १५२॥
माधुर्यमभिवाञ्छन्ति/न्तः प्रसादं च सुमेधसः।
समासवन्ति भूयांसि न पदानि प्रयुञ्जते॥ १५३॥
लाटीयावन्त्ययोर्वृत्त्यो१-र्मागध्यां च क्वचित् क्वचित्।
केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि॥
प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च।