स द्विधा— अभिधीयमानः प्रतीयमानश्च। तत्र —
अभिधीयमान इङ्गितलक्ष्यो यथा—(रघु. ६.१२)
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः।
प्रवालशोभा इव पादापानां श्रृङ्गारचेष्टा विविधा बभूवुः॥ १९८॥
स एव आकारलक्ष्यो यथा—(रघु. ६.८१)
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम्।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः॥ १९९॥
स एव उभयलक्ष्यो यथा—(सक. ३.५०)
त्वदर्पितदृशस्तस्या गीतगोष्ठ्यामवर्धत।
उद्दामरागपिशुना छाया कापि मुखाम्बुजे॥ २००॥