भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 671 to 680 of 1770 verses
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति॥ १९४॥

शक्तिर्यथा—(काव्याद. २.११, सक. ३.८.११)

बन्धन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम्।

नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ १९५॥

साधनं यथा—(सक. ३.८.१२)

उपनिहितहलीषासार्गलद्वारमारात् परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम्।

पवनरयतिश्चीर्वारिधाराः प्रतीच्छन् विशतिवलितश्रृङ्गः पामरागारमुक्षा॥

(२. सूक्ष्मः)

इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणात्तु सः।

सूक्ष्मात् प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते॥ १९७॥

Showing 671 to 680 of 1770 verses