प्रवासयति या कान्तं वसन्ते गृहसंस्थितम्।
विनाशपथदानेन पिशाची सा न साऽङ्गना॥ १४९॥
मारीचोऽयं मुनिर्यस्य कृत्याः कालान्तकालये।
पत्न्यां सङ्क्रन्दनादीनां सुतानामाप्तयेऽभवन्॥ १५०॥
घृणावद् घृणावदर्थान्तरं घृणावत्स्मृतिहेतुश्च।
पर्दते हदते स्तन्यं वपत्येष स्तनन्धयः।
मुहुरुत्कौति निष्ठीवत्यात्तगर्भा पुनर्वधूः॥ १५१॥