भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 671 to 680 of 746 verses
अथवा 'सामान्यवचनैः' इत्येतेन सर्वश्च शब्दोऽन्येनाभिसबध्यमानो विशेषवचनः सम्पद्यते। त एवं विज्ञास्यामः — 'प्रागभिसम्बन्धाद्यः सामान्यवचन' इति।

नन्वेवं सति 'उपमितं व्याघ्रादिभिः' इत्यत्र सामान्याप्रयोगग्रहणमतिरिच्यते।

व्याघ्रादयोऽपि भेदोपनिबन्धनस्येवादेः प्रयोगे यदोपमान एव वर्तन्ते तदा सामान्यप्रयोगमपेक्षन्ते— 'पुरुषोऽयं व्याघ्र इव शूरः, सिंह इव बलवानिति।' अभेदोपक्रमे चाभिधाने सम्बन्धनिमित्तस्योपमानशब्दैरेव अन्तर्भावितत्वादप्रयोगः सामान्यशब्दस्येति। अप्रयोगेऽपि च सामान्यधर्मावसायश्चन्द्रमुखवद्‍भविष्यति। तदुक्तं— 'सिंहो व्याघ्र इति पूजायां, श्वा काक इति कुत्सायाम्' इति।

नैवम्, यद्यन्तर्भूतोपमा न कुत्सार्थसम्बन्धप्रतिपद्‍व्याघ्रादिशब्दैरुपमेयं पुरुषादि पूजार्थं चाभिधीयते।

तथापि तन्निमित्तस्यानेकत्वानियमाय निमित्ततृतीयान्तशौर्यादिपदप्रयोगो न विरुध्यते, पुरुषोऽयं व्याघ्रः शौर्येणेति।

भिन्नेऽपि वस्तुन्यभेदोपचारः सारूप्यमात्रं गमयेत्, न तस्यात्मातिशयम्; यथा हि सुमनायते दुर्मनायते अभिमनायत इति सुदुरभीनां भवत्यर्थविशेषपक्षे प्रत्ययेनोपात्तार्थानामपि प्रत्ययस्य रूपाभेदादनवसीयमानविभागमुपसर्गार्थमवच्छेत्तुं प्रयोगः। कथं पुरुषव्याघ्रादौ तस्याः पूजाया निमित्तभेदसम्भवे नियमाय सदृशभागोपनिपाती शब्दः प्रयुज्यत इति।

(तद्धिताख्यातार्थैकार्थीभावाः)

एवमयमेकार्थीभावस्तद्धिताख्यातयोरपि अनन्तप्रकार एव द्रष्टव्यः। तत्र— (तद्धिते)

तद्धिते सामान्येन त्रिधा सम्बन्धविषयः, कारकविषयः, स्वार्थविषयश्च। तेषु— सम्बन्धो द्विधा— प्रधानमप्रधानं च।

प्रधानं यथा— 'गावोऽस्य सन्ति गोमान्, सलातुरोऽस्याभिजनः सालातुरीय' इति।

Showing 671 to 680 of 746 verses