न न न म म मा मां मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम्॥ १५६॥
अभिनयोऽपदेशो निर्देशः संज्ञा इङ्गितमाकार इत्याभिनयादयः। तेषु —
एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं।
एद्दहमेत्तावत्था एद्दहमेत्तेहि दिअएहिं॥ १५७॥
(एतावन्मात्रस्तनी एतावन्मात्राभ्यामक्षिपत्राभ्याम्।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः॥)