भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 691 to 700 of 1087 verses
निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते।

न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥ १६१॥

एवमन्येऽपि; यथा—

आश्लेषे प्रथमं क्रमादथ जिते हृद्येऽधरस्यार्पणे केलीद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति।

सान्तर्हासनिरुद्धसम्भृतरसोद्‍भेदस्फुरदगण्डया तूष्णीं शारविसारणाय निहितः स्वेदाम्बुगर्भः करः॥ १६२॥

(३. तात्पर्यम्)

यत्परश्शब्दः स शब्दार्थ इति तात्पर्यम्।

तच्‍च वाक्य एवोपपद्यते, पदमात्रेणाभिप्रायस्य प्रकाशयितुमशक्यत्वात्।

तच्‍च वाक्यप्रतिपाद्यं वस्तु त्रिरूपं भवति —

१. अभिधीयमानं, २. प्रतीयमानं, ३. ध्वनिरूपं च।

Showing 691 to 700 of 1087 verses