भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 701 to 710 of 1087 verses
यत्र यदुपात्तशब्देषु मुख्यागौणीलक्षणाभिः शब्दशक्तिभिः स्वमर्थमभिधायोपरत— व्यापारेषु आकाङ्क्षासन्निधियोग्यतादिभिर्वाक्यार्थमभिधीयते तदभिधीमानम्, यथा— गौर्गच्छतीति।

वाक्यार्थावगतेरुत्तरकालं वाक्यार्थ उपपद्यमानोऽनुपपद्यमानो वार्थप्रकरणौ— चित्यादिसहकृतौ यत्प्रत्याययति तत्प्रतीयमानम्; यथा— 'विषं भुङ्क्ष्व मा चास्य गृहे भुङ्क्थाः' इत्युक्ते वरं विषं भक्षितम्, न पुनरस्य गृहे भुक्तमिति प्रतीयते।

अर्थशब्दोपायादुपसर्जनीकृतस्वार्थो वाक्यार्थावगतेरनन्तरमनुनादरूपं प्रतिशब्दरूपं वा यद् अभिव्यञ्जयति तद्‌ध्वनिरूपम्। तच्‍च न सार्वत्रिकम्। तथा हि यथा— निवृत्तेऽभिघाते कस्यचिदेव कांस्यादेर्द्रव्यस्यानुनादो जायते, कस्यचिदेव कन्दरादेः प्रतिशब्दः, यथा च कस्यचिदेव वाक्यस्य प्रतीयमानाभिधीयमानवाक्यार्थप्रतीतेरनन्तरं ध्वनिरुपलभ्यत इति। निमिषत्येषेत्युक्तेऽक्ष्णोर्निमेषोऽभिधीयते, देवी न भवतीति प्रतीयते, रूपातिशयं च ध्वनति। अथैषां प्रयोगः।

(१. अभिधीयमानम्)

तत्राभिधीयमानं चतुर्धा— विधिरूपं, निषेधरूपं, विधिनिषेधरुपम्, अविधिनिषेधरूपञ्‍च। तेषु —

विधिरूपं यथा—

दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः।

परोपकरणं कायादसारात् सारमुद्धरेत्॥ १६३॥

निषेधरूपं यथा—

लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता।

Showing 701 to 710 of 1087 verses