यत्र यदुपात्तशब्देषु मुख्यागौणीलक्षणाभिः शब्दशक्तिभिः स्वमर्थमभिधायोपरत— व्यापारेषु आकाङ्क्षासन्निधियोग्यतादिभिर्वाक्यार्थमभिधीयते तदभिधीमानम्, यथा— गौर्गच्छतीति।
वाक्यार्थावगतेरुत्तरकालं वाक्यार्थ उपपद्यमानोऽनुपपद्यमानो वार्थप्रकरणौ— चित्यादिसहकृतौ यत्प्रत्याययति तत्प्रतीयमानम्; यथा— 'विषं भुङ्क्ष्व मा चास्य गृहे भुङ्क्थाः' इत्युक्ते वरं विषं भक्षितम्, न पुनरस्य गृहे भुक्तमिति प्रतीयते।
अर्थशब्दोपायादुपसर्जनीकृतस्वार्थो वाक्यार्थावगतेरनन्तरमनुनादरूपं प्रतिशब्दरूपं वा यद् अभिव्यञ्जयति तद्ध्वनिरूपम्। तच्च न सार्वत्रिकम्। तथा हि यथा— निवृत्तेऽभिघाते कस्यचिदेव कांस्यादेर्द्रव्यस्यानुनादो जायते, कस्यचिदेव कन्दरादेः प्रतिशब्दः, यथा च कस्यचिदेव वाक्यस्य प्रतीयमानाभिधीयमानवाक्यार्थप्रतीतेरनन्तरं ध्वनिरुपलभ्यत इति। निमिषत्येषेत्युक्तेऽक्ष्णोर्निमेषोऽभिधीयते, देवी न भवतीति प्रतीयते, रूपातिशयं च ध्वनति। अथैषां प्रयोगः।
तत्राभिधीयमानं चतुर्धा— विधिरूपं, निषेधरूपं, विधिनिषेधरुपम्, अविधिनिषेधरूपञ्च। तेषु —
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः।
परोपकरणं कायादसारात् सारमुद्धरेत्॥ १६३॥
लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता।