यस्यैतानि न विद्यन्ते न तेन सह संवसेत्॥ १६४॥
पक्वान्नमिव राजेन्द्र ! सर्वसाधारणाः स्त्रियः।
तस्मात् तासु न कुप्येत न रज्येत रमेत च॥ १६५॥
न दानेन न मानेन न शाठ्येन न सेवया।
न शास्त्रेण न हृद्यास्ताः सर्वथा किमिव स्त्रियः॥ १६६॥
१. क्वचिद् विधौ निषेधः — (गास. २.७५)