प्रत्ययविशेषको यथा— विशालम्, विशङ्कटम्।
प्रत्ययार्थविशेषको यथा— अभिमनायते, दुर्मनायते।
उभयविशेषको यथा— अनुव्यचलत्, प्रावर्षत्।
उभयार्थविशेषको यथा— उपतिष्ठति, उपतिष्ठते।
अत्र च प्रादिः प्रकर्षदिकमर्थं ब्रुवाणः क्रियां सामान्येनोपगृह्णाति, न तु क्रियासामान्यविशेषयोरात्मानं नियमयति।
धातुरपि क्रियां ब्रुवन् प्रकर्षादिकमर्थं सामान्येनोपगृह्णाति, न तु सामान्यविशेषयोरात्मानं नियमयति।
परस्परोपश्लेषे तु तयोर्विशेषणविशेष्यभावो नीलोत्पलादिवद् भवति।
कार्यार्थत्वं यथा— प्रयुङ्क्ते, पराकरोति, अभिषुणोति, प्रणमति, वित्तं, समीपम् इति।
आत्मनेपदं, परस्मैपदं, षत्वं, णत्वं, तत्वम्, ईत्वं च कार्याण्युपसर्गयोगे भवन्ति।
निरर्थकत्वं यथा—निह्नुते, निखञ्जन्ति, प्रलम्बते, संश्रयतीति। अत्र पदोपचयमात्रे प्रादिः प्रयुक्त इति निरर्थकत्वम्। आहुश्च—(वाप. २.१८८)