पञ्चादिभिः कुलकमिति संज्ञा विज्ञायते।
एतेनैकप्रघट्टकोपनिबन्धानां सुभाषितानां समूहः सङ्घातः, अनेकप्रघट्टकोपनिबद्धानां तु कोश इत्यपि व्याख्यातम्।
नगरर्तूद्यानचन्द्रार्कोदयार्णववर्णनादयस्तु सङ्घातरूपा एव प्रबन्धान्तःपातिनो वाक्यसमूहाः प्रकरणव्यपदेशभाजोऽवान्तरवाक्यतां लभन्ते। तदर्थाश्चैकार्थीभावमनु— भवन्ति।
यस्तु तैरुपक्रियमाणो महावाक्यार्थः सर्गबन्धादावाख्यायिकादौ मुखप्रतिमुखगर्भ— विमर्शनिर्वहणाख्यैः पञ्चसन्धिभिरुपक्षेपपरिकरादिभिश्चतुष्षष्टिसन्ध्यङ्गैरङ्गषोडशकरूप— भारत्यादिरूपवृत्तिचतुष्टयेन च यथायोगमुपकृतः कृतान्योन्यविशेषणविशेष्यभावः सुभद्राहरणं जानकीहरणमित्यादिना महावाक्यार्थरूपेण प्रथते, स प्रबन्धैकार्थीभावोऽपर इत्याख्यायते। यस्तु तद्रूपरामायणादिप्रबन्धार्थानामवधारणेनोपहितसंस्कारस्य 'रामवद्वर्तितव्यं न रावणादिवद्' इत्यादिविधिनिषेधप्रतिभाविशेष उपजायते, स समस्ताविश्वव्यापि चतुर्वर्गैकहेतुः परा महावाक्यैकार्थोऽर्थमूर्त्या विपरिणतमनादि— निधनमखण्डं शब्दब्रह्मेत्युच्यते।
अखण्डः सैष वाक्यार्थः शब्दब्रह्मेति गीयते।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति॥ ११०॥
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः॥ १११॥