भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 731 to 740 of 746 verses
चतुर्भिः कलापकम्,

पञ्चादिभिः कुलकमिति संज्ञा विज्ञायते।

एतेनैकप्रघट्टकोपनिबन्धानां सुभाषितानां समूहः सङ्घातः, अनेकप्रघट्टकोपनिबद्धानां तु कोश इत्यपि व्याख्यातम्।

नगरर्तूद्यानचन्द्रार्कोदयार्णववर्णनादयस्तु सङ्घातरूपा एव प्रबन्धान्तःपातिनो वाक्यसमूहाः प्रकरणव्यपदेशभाजोऽवान्तरवाक्यतां लभन्ते। तदर्थाश्चैकार्थीभावमनु— भवन्ति।

यस्तु तैरुपक्रियमाणो महावाक्यार्थः सर्गबन्धादावाख्यायिकादौ मुखप्रतिमुखगर्भ— विमर्शनिर्वहणाख्यैः पञ्चसन्धिभिरुपक्षेपपरिकरादिभिश्चतुष्षष्टिसन्ध्यङ्गैरङ्गषोडशकरूप— भारत्यादिरूपवृत्तिचतुष्टयेन च यथायोगमुपकृतः कृतान्योन्यविशेषणविशेष्यभावः सुभद्राहरणं जानकीहरणमित्यादिना महावाक्यार्थरूपेण प्रथते, स प्रबन्धैकार्थीभावोऽपर इत्याख्यायते। यस्तु तद्रूपरामायणादिप्रबन्धार्थानामवधारणेनोपहितसंस्कारस्य 'रामवद्‍वर्तितव्यं न रावणादिवद्' इत्यादिविधिनिषेधप्रतिभाविशेष उपजायते, स समस्ताविश्वव्यापि चतुर्वर्गैकहेतुः परा महावाक्यैकार्थोऽर्थमूर्त्या विपरिणतमनादि— निधनमखण्डं शब्दब्रह्मेत्युच्यते।

अखण्डः सैष वाक्यार्थः शब्दब्रह्मेति गीयते।

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति॥ ११०॥

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।

इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः॥ १११॥

(वाप. १.१६)

Showing 731 to 740 of 746 verses