स वाचको विशेषाणां सम्भवे द्योतकोऽपि वा।
शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते॥ १०८॥
क्रियाविशेषको वा स्यात् कार्यार्थं वोपदिश्यते।
पदोपचयमात्रे वाऽनर्थकः प्रादिरिष्यते॥ १०९॥
एवमयमनेकरूपः पदैकार्थीभावः। एवं वाक्यैकार्थीभावोऽपि।
तत्र 'आख्यातं साव्ययकारकविशेषणं वाक्यं, एकतिङ् वाक्यम्' इत्यादयो विकल्पाः। तत्र चैकवाक्यस्थात् पदादुत्तरयोस्तिङामन्त्रितपदयोर्निघातः। युष्मदस्म— दोर्वान्नावादय आदेशाः। 'वाक्यस्य टेः प्लुत उदात्त' इति तु वाक्याचामन्त्यस्य प्लुत इत्यादीनि प्रयोजनान्यभिधीयन्ते। क्रियाकारकाव्ययविशेषणपदार्थानां च परस्परमुपकार्योपकारकभावेनावस्थितानां 'भावना, विधिः, प्रतिभा' वेति वाक्यार्थः प्रथमे। एवं वाक्यानामपि परस्परमुपमानोपमेयभावादिभिरिवादिशब्दप्रयोगे मुक्तकादिष्वेकार्थीभावो भवति। एतेनैकक्रियाकारकाभिनिवेशिनोर्युगलकसन्दानितक— कलापककुलकादयो वाक्यविशेषा व्याख्याताः। तत्र—
द्वाभ्यां चतुष्पदीभ्यां युगलकम्,