(आवार्ज्य ताड्यते यथा कुर्करी नाम मम भर्ता।
प्रक्षन्ते राजकुलभृत्या हा कस्य क्रन्दामि॥)
११. निष्क्रियमशरीरं, यथा—
सेलसुआरुद्धद्धं मुद्धाणाबद्धमुद्धससिळेहं।
सीसपडिच्छिअगंगं संझापणअं पमहणाहं॥ १६४॥
(शैलसुतारुद्धार्धं मूर्धाबद्धमुग्धशशिलेखम्।
शीर्षप्रतिष्ठितगङ्गं सन्ध्याप्रणतं प्रमथनाथम्॥)
१२. ऊनोपमानविशेषणमूनोपमम्, यथा—(रुद्रट. १.३६)
संहअचक्काअ—जुआ विअसिअ—कमला मुणालसंछण्णा।
वावी वहु व्व रोअण—विलित्त—थणआ सुहावेइ॥ १६५॥