१५. भिन्नवचनोपमं भिन्नवचनम्, यथा—(काव्याद. २.५५)
सरांसीवामलं व्योम काशा इव सितः शशी।
शशीव धवला हंसाः हंसीव धवला दिशः॥ १६८॥
गुणविपर्ययस्त्रिधा—शब्दप्रधानः, अर्थप्रधानः, उभयप्रधानश्च। तत्र श्लेषसमता—
१६. सौकुमार्यविपर्ययः शब्दप्रधानः। तेषु—
श्लेषविपर्ययाच्छिथिलं यथा—(काव्याद. १.४३)
आलीयं मालतीमाला लोलालिकलिला मनः।
निर्मूलयति मे मूलात् तमालमलिने वने॥ १६९॥
समताविपर्ययो विषमम् यथा—(काव्याद. २.५५)
कोकिलालापवाचालो मामेति मलयनिलः।