मही महावराहेण लोहितादुद्धृतोदधेः।
इतीयत्येव निर्दिष्टे नेया लौहित्यहेतवः॥ १७३॥
कान्तिविपर्ययो ग्राम्यम्, यथा—(काव्याद. १.६१)
कन्ये कामयमानं मां त्वं न कामयसे कथम्।
इति ग्राम्योऽयमर्थोक्तिःर्वैरस्यायैव कल्पते॥ १७४॥
ओजोमाधुर्यौदार्यविपर्यय उभयप्रधानः। तेषु —
ओजोविपर्ययः खण्डितरीतिरसमस्तं, यथा—
स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः।
च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः॥