जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थिति गायति मद्रकाणि।
तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लवणस्य कोऽर्घः॥ १७८॥
२. निष्प्रयोजनं गतार्थं च व्यर्थम्, यथा—(भट्टि ४.४)
आंहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं, स च।
अहौषीत् स्वतनुं वह्नौ दृष्टाप्तौ रामलक्ष्मणौ॥ १७९॥
३. उक्ताभिन्नार्थमेकार्थम्, यथा—(माघ. ३.१२)
प्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत्।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु॥ १८०॥
इत्युक्तार्थमेवाह—(माघ. ३.१३)
कवाटविस्तीर्णमनोरमोरः स्थलस्थितश्रीललनस्य तस्य।