आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः॥ १८१॥
४. अनिश्चयकृत्संशय्, यथा—(काव्याद. ४.१७)
मनोरथप्रियालोकरसलोलेक्षणे सखि !।
आराद्वृत्तिरियं माता न क्षमा द्रष्टुमीदृशम्॥ १८२॥
काराविऊण खउरं गामउडो मज्जिओ अ जिमिओ अ।
णक्खत्तत्तिहिवारे जोइसिअं पुच्छिउं चलिओ॥ १८३॥
(कारयित्वा क्षौरं ग्रामवृद्धौ मज्जितश्च भुक्तवांश्च।
नक्षत्रतिथिवारान् ज्यौतिषिकं प्रष्टुं चलितः॥)
६. जात्याद्युक्तावनिर्व्यूढं खिन्नम्, यथा—