माधुर्यविपर्ययः खण्डितरीतिरनिर्व्यूढम्, यथा—
नखिनां च नदीनां च शृङ्गिणां शस्त्रिणां तथा।
विश्वासो नोपगन्तव्यः स्त्रीषु राजकुलेषु च॥ १७६॥
औदार्यविपर्ययः खण्डितरीतिरनलङ्कारम्। यथा—
दीर्घपुच्छश्चतुष्पादः ककुद्यान् लम्बकम्बलः।
गोरपत्यं बलीवर्दस्तृणान्यति मुखेन सः॥ १७७॥
वाक्यार्थदोषा अपि षोडशौव—
अपार्थं, व्यर्थम्, एकार्थं, संसशयम्, अपक्रमं, खिन्नम्, अतिमात्रं, परुषं, विरसं, न्यूनोपनम्, अधिकोपनम्, असदृशोपनम्, अप्रसिद्धोपमम्, निरलङ्कारम्, अश्लीलं, विरुद्धं चेति। तेषु —
१. समुदायार्थशून्यमपार्थम्, यथा—