उच्चलच्छीकराच्छाच्छनिर्झराम्भः कणोक्षितः॥ १७०॥
सौकुमार्यविपर्ययोऽसुकुमारम्, यथा—(काव्याद. १.४८)
असितर्तितुगद्रिच्छित्स्वःक्षितां पतिरद्विदृक्।
अमिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्नीयिषीष्ट वः॥ १७१॥
प्रसादार्थव्यक्तिकान्तिविपर्ययोऽर्थप्रधानः। तेषु—
प्रसादविपर्ययोऽप्रसन्नम्, यथा—
अनङ्गकमलञ्चके मयमाना मरालिका।
पश् /यस्यानत्यर्जुनाब्जन्मसदृशाङ्को वलक्षगुः॥ १७२॥
अर्थव्यक्तिविपर्ययो नेयार्थम्, यथा—(काव्याद. १.७४)