बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ २२५॥
गज्जंते खे मेहा फुल्ला णीवा पणच्चिआ मोरा।
णठ्ठो चंदुज्जोओ वासारत्तो हला पत्तो॥ २२६॥
(गर्जन्ति खे मेघाः, फुल्ला नीपाः, प्रणर्तिता मयूराः।
नष्टश्चन्द्रोद्द्योतो वर्षर्तुः सखि प्राप्तः॥)
अभावहेतुर्यथा—(काव्याद. २.२४७)
अनभ्यासेन विद्यानामसंसर्गेण धीमताम्।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम्॥ २२७॥