अहो दैवगतिश्चित्रा तथापि न समागमः॥ २३०॥
नीवीबन्धोच्छ्वसितशिथिलं यत्र यक्षाङ्गनानां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥ २३१॥
शम्भोरुद्धनृत्तकर्मणि करे कङ्कालमाद्यं हरेः संघट्टस्फुटितेन्दुमण्डलगलत्पीयूषसञ्जीवितम् ।
तत्कालप्रणते मुरद्विषि नवे दृष्ट्वा विलासं श्रियः कुर्वत्कोपकषायितेन मनसा मिथ्योत्प्लुतीः पातु वः॥ २३२॥
प्रबलकारणकलापदर्शनादिदमेवं भवेदिति ज्ञानं सम्भवः।
स चतुर्धा— विधिरूपो, निषेधरूप उभयरूपोऽनुभयरूपश्च। तेषु —