भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 811 to 820 of 1530 verses
तत्रेष्टार्थव्यवच्छिन्ना पदपङ्‌क्तिर्वाक्यपद्धतिः प्रकरणावली वा प्रबन्धः। यतः पदानां सुबन्तानां तिङन्तानां च सर्वार्थसाधारणत्वान्न स्वरूपनिबन्धनो विशेषः प्रतीयते। नापि वाक्यानां, सर्वव्यवहारसाधारणत्वात् परस्परावच्छेदहेतुः भेदः संभवति। न च प्रकरणानां शैलर्तुनगरार्णववर्णनादिरूपाणां सकलकाव्यशरीराङ्गत्वे तद्गतो व्यतिरेक उपपद्यते। अतो य एव तैः उपक्रियमाणो महावाक्यार्थः प्रतिनियतरूपः स परमनेकवाक्यप्रकरणादिसमुदायरूपस्य महाकाव्यादेरवच्छेदहेतुः, तेन व्यवच्छिन्ना विशेषेऽवस्थापिता पदपङ्क्तिर्वाक्यपद्धतिः प्रकरणावली वा प्रबन्धः। यथा जानकीहरणं, कुमारसम्भव इति।

ननु च जानक्या हरणमस्मिन्, कुमारस्य सम्भवोऽस्मिन्निति बहुव्रीहौ प्रबन्धेऽन्यपदार्थे जानकीहरणमिति न प्राप्नोति, काव्ये तु कुमारसम्भव इति। न चैकत्र काव्यमेवान्यपदार्थत्वेनाश्रीयते, अन्यत्र प्रबन्ध एवेति नियमहेतुरस्ति। तर्हि नायं बहुव्रीहिः, अति तु तत्पुरुषः, जानक्या हरणं जानकीहरणं, कुमारस्य सम्भवः कुमारसम्भव इति। अभिधेयेन चाभिधायकमपि व्यपदिशन्ति कवयः; यथा अभिज्ञानशाकुन्तलं नाटकं, हर्षचरितमाख्यायिकेति।

प्रबन्धश्चेह द्विधा— प्रेक्ष्यः, श्रव्यश्च। तयोः —

अभिनेयः प्रेक्ष्यः । स च नाटकादिभेदाच्चतुर्विंशतिप्रकारो भवति—

नाटकं, प्रकरणं, व्यायोगः, ईहामृगः, समवकारः, डिमः, उत्सृष्टिकाङ्कः, भाणः, प्रहसनं, वीथी, नाटिका, सट्टकः, श्रीगदितं, १दुर्मिलिका, प्रस्थानं, काव्यं, भाणकं, भाणिका, गोष्ठी, हल्लीसकं, नर्तनकं, प्रेक्षणकं, रासकं, नाट्यरासकमिति।

अनभिनेयः श्रव्यः। सोऽप्याख्यायिकादिभेदाच्चतुर्विंशतिप्रकारो भवति—

आख्यायिका, उपाख्यानम्, आख्यानं, निदर्शनं, प्रवह्लिका, मन्धु(न्थु)ल्लिका, मणिकुल्या, कथा, परिकथा, खण्डकथा, उपकथा, बृहत्कथा, चम्पूः, पर्वबन्धः, काण्डबन्धः, आश्वासकबन्धः, सन्धिबन्धः, अवस्कन्धबन्धः, काव्यशास्त्रं, सर्गबन्धः, शास्त्रकाव्यं, कोशः, सङ्घातः, संहिता, २साहित्यप्रकाश इति। तत्र

१. अग्रेऽपि दुर्मिलिकेत्येव नाम। २. इदमेव हि वस्तुभूतं नाम ग्रन्थस्यास्य।

(प्रेक्ष्यप्रबन्धः (वाक्यार्थाभिनयः) —२४)

अभिनेयभेदेषु—

Showing 811 to 820 of 1530 verses