अत्र ज्ञापकहेत्वलङ्कारे कारकहेतुर्जातिश्चार्थालङ्कारौ, आवन्त्या रीतिः क्रमरचना च शब्दालङ्कारौ, दीपकक्रमश्लेषहेतूक्तिपर्यायाश्च उभयालङ्कारौ(रा) नोल्लिखन्ति। श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणे यावदर्थपदता संमितत्वम्, अनिष्ठुराक्षरप्रायता सौकुमार्यमिति शब्दगुणौ, दीप्तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणो, कालविरोधि निष्क्रियमशरीरमिति दोषगुणौ च नोल्लिखन्ति। स्वनिवासवर्णनोत्कर्षे पतिप्रभावोपवर्णनं निवासिजनवैदग्ध्याभिधानं च विभावौ प्रियतमास्थान (?) प्रेयोरसे सर्वोपकरणप्रागुण्यस्मृतिः विलासाद्यभिनन्दनं चानुभावौ प्रियसुहृत्प्ररोचनोत्साहे घनागमनीपविकासस्मृतिरुत्कण्ठेति च व्यभिचारिणौ नोल्लिखन्ति। विभाव्यमानास्तु सर्व एव प्रतीयन्ते। अन्यच्च —
शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले गले तारा हारः तरलमुडुचक्रं च कुचयोः।
तटित्काञ्ची सन्ध्या सिचयरुचयः कालि! तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते॥ १७७॥
अत्रारोहावरोहक्रमो गतिः, श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणयोर्बन्ध— वैकट्यादयः शब्दगुणाः, दीप्तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणयोः रूढाहङ्कारतौर्जित्यमित्यादयोऽर्थगुणाः, कालादिविरोध्यप्रकृतरसत्वमिति दोषगुणयोः निष्क्रियत्वादयो दोषगुणा नोल्लिखन्ति। वाक्यमुद्रानुप्रासशब्दालङ्कारयोः क्रमरचनादयः शब्दालङ्काराः, जातिहेत्वर्थालङ्कारयोः ज्ञापकहेत्वादयोऽर्थालङ्कारा; समासोक्तिरूप— कोभयालङ्कारयोः समुच्चयोक्त्यादय उभयालङ्काराः नोल्लिखन्ति। प्रेयश्शान्तर— सयोर्भयानकादयो रसाः रौद्रश्रृङ्गाराभासयोर्वीराभासादयः आभासा मतिस्मृतिभाव— योर्हर्षादयश्च भावा नोल्लिखन्ति। विभाव्यमानाश्च ते सर्व एव प्रतीयन्ते।
सोऽयं वाक्यविषयो रसावियोग उक्तः॥
१. द्र. अस्माकं कालिदासग्रन्थावलीगतः पाठः।
(२. प्रबन्धविषयो रसावियोग)*
प्रबन्धविषय उच्यते— सोऽपि दोषहानेन गुणोपादानेन अलङ्कारसङ्करेण च प्रकाशमानो मनीषिणां मनःप्रकर्षहेतुर्भवति। तत्र
दोषहानमनौचित्यादिपरिहारेण यथा— मायाकैकेयीदशरथाभ्यां रामः प्रवासितो न मातापितृभ्यामिति निर्दोषदशरथे;
राममेव योधयन् रामेण वाली निहतो न सुग्रीवमिति महावीरचरिते;