रुधिरप्रियराक्षसेन दुश्शासनस्य रुधिरं पीतं १न भीमसेनेनेति वेणीसंहारे;
अनङ्गावतारस्य प्रद्युम्नस्यैव जन्मान्तरपत्नी रतिर्मायावती न गुर्वङ्गनेति हरिवंशे;
दुर्वाससो अवध्यानाद् दुष्यन्तः शकुन्तलास्वीकारं विसस्मार, नानवस्थिता— नुरागतयेति शाकुन्तले;
लवणप्रयुक्तराक्षसाक्ष्यां राम उपह्वरे तत्तदभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे;
दग्धायामपि वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, सिद्धे च समीहिते तया विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासन्निधेर्वत्सराज— स्याग्निप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुच्चखानेति तापसवत्सराजे;
नीचाक्षः स्वामिकार्यं साधयामीति प्रभुभक्त्या निरपराधामपि प्रेयसीं हित्वा स्वामिकार्यापेक्षया अहमेतावन्ति दिनानि जीवितः, अद्य तु कृतस्वामिकार्य— स्तामेवानुगच्छामीति शिवगणः शूद्रकविनिर्मितां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्प्रेमापदानदर्शनापह्नुतप्रियव्यलीका तद्वियोगकातरा तत्रैवात्मानं प्रचिक्षेपेति विक्रान्तशूद्रके।
एवमन्यदपि दोषहानमुदाहार्यम्। गुणोपादानं तु वक्ष्यमाणप्रबन्धभेदानां सम्यग्लक्षणयोगेन संविधानकसुसूत्रता; तेष्वेव नगरार्णववर्णनादीनां सन्निवेश— प्राशस्त्यमलङ्कारसङ्कर इति। तदुक्तम्— (रामाभ्युदये प्रस्तावनायाम्)
औचित्यं वचसां प्रकृत्यनुगतं, सर्वत्र पात्रोचिता पुष्टिः स्वावसरे रसस्य च, कथामार्गे न चातिक्रमः।
शुद्धिः प्रस्तुतसंविधानकविधौ, प्रौढिश्च शब्दार्थयोः, विद्वद्भिः परिभाव्यतामवहितैरेतावदेवास्तु नः॥ १७८॥