सा बाला वयमप्रगल्भमनसः, सा स्त्री वयं कातराः, सा पीनोन्नतिमत्ययोधरभरं धत्ते सखेदा वयम्।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं, दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्॥ २२८॥
सत्यपि सामर्थ्येऽनुत्पादितस्वकार्यो व्याहतश्च हेतुरहेतुः। तयोः—
न विरचिता ललाटतटलास्यकरी भ्रुकुटि— र्न परुषहुङ्कृतेन मधुरस्मितमन्तरितम्।
न तव निशुम्भसम्भ्रमवशादपि दारुणया भगवति चेष्टया कलुषितं वदनाम्बुरुहम्॥ २२९॥
अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः।