त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी— रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥ २३३॥
निषेधरूपो यथा—(किराता. १६.२३)
परस्य भूयान् विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु॥ २३४॥
उत्पश्यामि द्रुतमपि सखे ! मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभो पर्वते पर्वते ते।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्॥ २३५॥