युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः॥ १८९॥
१२. अतुल्योपमानमसदृशोपमम्, यथा—
णमह हरं रोसाणल—णिद्दद्ध—विअद्ध—मम्मह—सरीरं।
वित्थअ—णिअंब—णिग्गअ—गंगासोत्तं व हिमवंतं॥ १९०॥
(नमत हरं रोषानलनिर्दग्धविदग्धमन्मथशरीरम्।
विस्तृतनितम्बनिर्गतगङ्गास्त्रोतसमिव हिमवन्तम्॥)
१३. अप्रसिद्धोपमानमप्रसिद्धोपमम्, यथा—
कुमुदमिव मुखं तस्या गौरिव महिषः शशीव काव्यमिदम्।
शरदिव विभाति तरुणी विकसत्पुलकोत्करेयमिति॥ १९१॥
१४. अलङ्कारहीनं निरलङ्कारम्, यथा—