कोला खणंति मोत्थं खाअंति मअअमंसाइँ।
उलुआ हणंति काए काआ उलुए वि वाहं/यंति॥ १९२॥
(कोलाः खनन्ति मुस्तां गृध्राः खादन्ति मृतकमांसान्।
उलूका घ्नन्ति काकान् काका उलूकानपि वाधन्ते॥)
१५. असभ्यार्थमश्लीलम्, यथा—(भामहा. १.५१)
उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः।
पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः॥ १९३॥
१६. विरोधस्त्रिधा— प्रत्यक्षविरोधोऽनुमानविरोध आगमविरोधश्च। तत्र— देशकाललोकादिप्रतीतः प्रत्यक्षविरोधः। तेषु —
सुराष्ट्रेष्वस्ति नगरी मधुरा नाम विश्रुता।