अक्षोट नारिकेलाङ्का यस्याः पर्यन्तभूमयः॥ १९४॥
कालविरुद्धं यथा—(काव्याद. ४.४५)
पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुदती।
मधुरुत्फुल्लनिचुलो निदोघो मेधदुर्दिनः॥ १९५॥
लोकविरुद्धं यथा—(काव्याद. ४. ५०)
आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः।
गुरुसारोऽयमेरण्डो निस्तारः खदिरद्रुमः॥ १९६॥
युक्त्यौचित्यप्रतिज्ञादिकृतोऽनुमानाविरोधः। तत्र—
सुरहि—महु—पाण—लंपड—भमर—गणाबद्ध—मंडलीबंधं।