उक्ताश्चतस्त्रोऽथ पुनश्चतस्त्रः शब्दार्थसम्बन्धभिदः क्रमेण।
चतस्त्र एवाथ वचोविशेषे निषेदुषीस्ताः परिकीर्तयामः॥ ११२॥
इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे सापेक्षशब्दशक्तिप्रकाशो नाम
सनातनः शीलितसाहितीकः सर्वाङ्गसम्पूर्णतया यथार्थम्।
प्रकाशमेतं सुपठं विधाय प्रसासदीति श्रितकाव्यतत्त्वः॥