सौभाग्यमिव तात्पर्यमान्तरो गुण इष्यते।
वाग्देवताया लावण्यमिव बाह्यस्तयोर्ध्वनिः॥ १९१॥
अदूरविप्रकर्षात्तु द्वयेन द्वयमुच्यते।
यथा सुरभिवैशाखौ मधुमाधवसंज्ञया॥ १९२॥
सत्यमुक्तम। किन्तु नाद्यापि निदर्शनतः प्रतिपाद्यते।
तर्हि श्रूयतामिदं प्रतिपादयामः—
यस्तावदयमनन्तरो ग्रन्थः स सर्वः काव्ये ध्वनिरित्यवधार्यताम्। वचसि तात्पर्यं द्विधा शास्त्रे लोके च। तत्र शास्त्रे यथा—'आत्मस्थितं गुणविशेषमहङ्कृतस्य' इत्यादि। अत्र 'आत्मस्थितं गुणविशेषमहङ्कृतस्य शृङ्गारमाहुरिह जीवितमात्मयोनेः' इत्याप्तोपदेशरूप आगमः; 'तस्यात्मशक्तिरसनीयतया रसत्वम्' इति संज्ञार्थानुगामि प्रत्यात्मवेदनीयं प्रत्यक्षम्। 'युक्तस्य येन रसिकोऽयमिति प्रवादः' इत्यर्थापत्तिरूपम् अनुमानम्; तथा हि योऽयं लोके रसोऽस्यास्तीति रसिकोऽयं रसिकोऽयमिति विना१ मधुरादीन् केषुचिदेव पुरुषविशेषेषु निरपवादः प्रवादः स नान्तरेण प्रत्यात्मवेदनीयं रसाह्वयवस्तुसम्बन्धमुपपद्यते। सोऽयं विवक्षितार्थस्य प्रमाणत्रयेण प्रतिपादनं वाक्यार्थोऽभिधीयमानः।
प्रतिपाद्यश्च त्रिप्रकारः पुरुषो भवति अप्रतिपन्नो, विप्रतिपन्नः संशयित इति। तत्र यथातुरानातुरयोर्भोजनमनातुरः प्रतिपद्यत इति तथैव प्रकल्प्यते, तथेहाप्रतिपन्ना— नुरोधादितयोरप्यागम एव प्रथममुपन्यस्यते। अत्र विप्रतिपन्नः संशयितो वागमं न मन्यते। अतस्तदर्थं सर्वप्रमाणेभ्यो वलीयः प्रत्यक्षमुपन्यसनीयं भवति। तदपि वैयात्याद् विप्रतिपन्नो न मन्यते। ततोऽस्य शासनाय ब्रह्मास्त्ररूपा सार्वलौकिकी युक्तिरुपन्यस्यत इति। स एव प्रमाणत्रयोपन्यासहेतुर्वक्तुरभिप्रायः प्रतीयमानः प्रमाणत्रयोपन्यासादिना च साङ्ख्यदर्शनाश्रयेण शृङ्गारस्सन्नेवाविर्भवति, न त्वसन्नुत्पद्यते; स च त्रिविधप्रमाणाश्रयः १. माधुरा॰ इति तु मूलं स्यात्। माधुरा माथुराः — रे. श्रेयानिति प्रतिपादनतात्पर्यम्। साङ्ख्या ह्येवमाहुः, 'सदेवोत्पद्यते, प्रकृतिरेव कर्त्री, पुरुषः पुनरुदास्ते, उदासीनमपि चैनं भोगसम्पादनाय प्रकृतिरुपसर्पति' इति।
ननु च साङ्ख्यानां 'दृष्टमनुमानमाप्तवचनं च' इति प्रमाणोपन्यासक्रमः। इह त्वागमस्य प्रथममुपन्यासे किं तात्पर्यम् ?