भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 821 to 830 of 1087 verses
कालाकारन्धकाराननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य॥ १८५॥

अत्र भास्करकराः कल्याणं वः क्रियासुरिति वाक्यार्थः करशब्दशक्ति— स्वाभाव्यात् किसलयरुचय इत्यादिसमस्ततुल्यविशेषणयोगाच्‍च हस्तेष्वनुनादं जनयन् भगवतस्तेजोरूपतां पुरुषरूपतां च ध्वनति। तदुभयमपि तदनुस्यूतमेवेह निरूप्यत इत्यनुनादध्वनिः। एवम्— (सूर्यश. ३)

गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः प्रारम्भे वासरस्य व्युपरतिसमये चौकरूपास्तथैव।

निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा— नूष्माणं सन्तताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्‍नपादाः॥ १८६॥

अत्र पादशब्दस्वाभाव्यात् सर्वमपि योजनीयम्। इयांस्तु विशेषः—'पूर्वत्र साधर्म्यद्वारेण इह तु वैधर्म्यद्वारेणे'—ति।

अत्र च प्रतिशब्दध्वनिः यथा— (सूर्यश. ९)

दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः पूर्वाह्‍णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः।

दीप्‍तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु॥ १८७॥

अत्र दीप्‍तांशोर्गावो रश्मयः स्तूयमानाः गोशब्दशक्तिस्वाभाव्यात् तुल्यविशेषण— योगाच्‍च धेनुषु प्रतिशब्दं जनयन्त्यस्तास्वपि विशिष्टं माहात्म्यविशेषं प्रतिध्वनन्ति।

एवम्—

Showing 821 to 830 of 1087 verses